|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.4. अध्यायः 004
Mahabharata - Shanti Parva - Chapter Topics
दुर्योधनेन स्वयंवरमण्टपे कलिङ्गराजकन्याहरणम्॥ 1॥ कर्णेन तमनुद्रुतवतो राज्ञां पराजयः॥ 2॥

Mahabharata - Shanti Parva - Chapter Text
नारद उवाच। 12-4-0x(6710)(80999)
कर्णस्तु समवाप्यैवमस्त्रं भार्गवनन्दनात्।
दुर्योधनेन सहितो मुमुदे भरतर्षभ॥ 12-4-1(81000)
ततः कदाचिदाजातः समाजग्मुः स्वयंवरे।
कलिङ्गविषये राजन्राज्ञश्चित्राङ्गदस्य च॥ 12-4-2(81001)
श्रीमद्राजपुरं नाम नगरं तत्र भारत।
राजानः शतशस्तत्र कन्यार्थे समुपागमन्॥ 12-4-3(81002)
श्रुत्वा दुर्योधनस्तत्र समेतान्सर्वपार्थिवान्।
रथेन काञ्चनाङ्गेन कर्णेन सहितो ययौ॥ 12-4-4(81003)
ततः स्वयंवरे तस्मिन्नानादेश्या महारथाः।
समाजग्मुर्नृपतयः कन्यार्थे नृपसत्तम॥ 12-4-5(81004)
शिशुपालो जरासन्धो भीष्मको वक्र एव च।
कपोतरोमा नीलश्च रुक्मी च दृढविक्रमः॥ 12-4-6(81005)
सृगालश्च महाराजः स्त्रीराज्याधिपतिश्च यः।
विशोकः शतधन्वा च भोजो वीरश्च नामतः॥ 12-4-7(81006)
एते चान्ये च बहवो दक्षिणां दिशमाश्रिताः।
म्लेच्छाश्चार्याश्च राजानः प्राच्योदीच्यास्तथैव च॥ 12-4-8(81007)
काञ्चनाङ्गदिनः सर्वे शुद्धजाम्बूनदप्रभाः।
सर्वे भास्वरदेहाश्च व्याघ्रा इव बलोत्कटाः॥ 12-4-9(81008)
ततः समुपविष्टेषु तेषु राजसु भारत।
विवेश रङ्गं सा कन्या धात्रीवर्षवरान्विता॥ 12-4-10(81009)
ततः संश्राव्यमाणेषु राज्ञां नामसु भारत।
अत्यक्रामद्धार्तराष्ट्रं सा कन्या वरवर्णिनी॥ 12-4-11(81010)
दुर्योधनस्तु कौरव्यो नामर्षयत लङ्घनम्।
प्रत्यपेधच्च तां कन्यामसत्कृत्य नराधिपान्॥ 12-4-12(81011)
स वीर्यमदमत्तत्वाद्भीष्मद्रोणावुपाश्रितः।
रथमारोप्य तां कन्यामाजुहाव नराधिपान्॥ 12-4-13(81012)
तमन्वगाद्रथी खङ्गी बद्धगोधाङ्गुलित्रवान्।
कर्णः शस्त्रभृतां श्रेष्ठः पृष्ठतः पुरुषर्षभ॥ 12-4-14(81013)
ततो विमर्दः सुमहान्राज्ञामासीद्युयुत्सताम्।
सन्नह्यतां तनुत्राणि रथान्योजयतामपि। 12-4-15(81014)
तेऽभ्यधावन्त संक्रुद्धाः कर्णदुर्योधनावुभौ।
शरवर्षाणि मुञ्चन्तो मेघाः पर्वतयोरिव॥ 12-4-16(81015)
कर्णस्तेषामापततामेकैकेन शरेण ह।
धनूंषि च शरव्रातान्पातयामास भूतले॥ 12-4-17(81016)
ततो विधनुषः कांश्चित्कांश्चिदुद्यतकार्मुकान्।
कांश्चिदुत्सृजतो बाणान्रथशक्तिगदास्तथा॥ 12-4-18(81017)
लाघवाव्द्याकुलीकृत्य कर्णः प्रहरतां वरः।
हतसूतांश्च भूयिष्ठान्स विजिग्ये नराधिपान्॥ 12-4-19(81018)
ते स्वयं वाहयन्तोऽश्वान्याहि याहीति वादिनः।
व्यपेयुस्ते रणं हित्वा राजानो भग्नमानसाः॥ 12-4-20(81019)
दुर्योधनस्तु कर्णेन पाल्यमानोऽभ्ययात्तदा।
हृष्टः कन्यामुपादाय नगरं नागसाह्वयम्॥ ॥ 12-4-21(81020)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि चतुर्थोऽध्यायः॥ 4॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-4-2 विषये देशे॥ 12-4-6 भीष्मको बक एव चेति थ. पाठः॥ 12-4-7 त्रैलोक्याधिपतिश्च य इति ट. ड. पाठः। त्रैराज्येति थ. पाठ॥ 12-4-10 वर्षवरः षण्ढः॥ 12-4-17 शिरांसि सशरांश्चापानिति ट. ड. थ. पाठः॥ 12-4-20 व्यपेयुः व्यपगताः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|